Siddhant Kaumudi | Sanskrit Bo 1.5 Icon

Siddhant Kaumudi | Sanskrit Bo

Srujan Jha Education
0
0 Ratings
38K+
Downloads
1.5
version
Oct 30, 2023
release date
14.8 MB
file size
Free
Download

About Siddhant Kaumudi | Sanskrit Bo Android App

प्रास्ताविकम्
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।।
अर्थात् सत्यं यदस्ति तदेव ज्ञानम् । ब्रह्मसत्यं जगन्मिथ्या इति महावाक्यं स्वीकृत्य ब्रह्मणः ज्ञानात्मकत्वं सिद्ध्यति। अपि च यदि ब्रह्म एव ज्ञानं तर्हि शब्दः एव ब्रह्म इति, तदेव ज्ञानम्। एवं शब्दाश्लिष्टं ज्ञानमिति प्रतिपादयितुं शक्नुमः । यदि शब्दः एव ब्रह्म, अपि च ब्रह्म एव ज्ञानम् । तर्हि शब्दज्ञानमेव मोक्षप्राप्तेः साधनमिति प्रतिपादयितुं शक्नुमः । तथा च शब्दब्रह्मणः ज्ञानप्राप्त्यर्थं व्याकरणमेव एकं प्रमुखं साधनमस्ति । अर्थात् ब्रह्मज्ञानप्राप्तेः साधनं व्याकरणशास्त्रमासीत् अस्ति स्थास्यति च सम्प्रति इदमेव शास्त्रं साध्यरूपेण प्रतिभाति छात्राणां सम्मुखे । तत्र मुख्यं कारणं भवति व्याकरणशास्त्रस्य जटिलत्वम् । यतोहि पाणिनीयव्याकरणं पाणिनीयविधिमाध्यमेन न अध्याप्यते। शास्त्रेऽस्मिन् कानिचन वैज्ञानिकानि तत्त्वानि सन्ति तेषां तत्त्वानां ज्ञानम् अनेन माध्यमेन एव भवितुमर्हति । यथा- अधिकारज्ञानम्, अनुवृत्तिज्ञानम्, प्रकरणज्ञानञ्च।

वस्तुतः एतत् सर्वं विचिन्त्य एव पाणिनीयमाध्यमेन अस्य शास्त्रस्य अध्ययनम् अध्यापनं भवतु तथा च अस्य शास्त्रस्य सर्वे टीकाग्रन्थाः एकत्रीभूय पिपठिषूणां जिज्ञासाशान्तये प्रवृत्ताः भवेयुः एतदर्थं Android App निर्माणं कृतम् ।

पाणिनी अष्टाध्यायी ऐप मध्ये अष्टाध्याय्याः अध्याय-पाद-सूत्र क्रमेण सर्वाणि सूत्राणि पदच्छेद–समास-अर्थ – वृत्ति –लघुसिद्धान्तकौमुदी – उदाहरण – समास – प्रथमावृत्ति – काशिका – काशिकावृत्ति- न्यास – बालमनोरमा - तत्त्वबोधिनीत्यादिटीकाभिः सुसज्जितानि वर्तन्ते ।

सिद्धान्तकौमुदीति ऐप मध्ये सिद्धान्तकौमुद्यनुसारं सर्वाणि सूत्राणि पदच्छेद – समास – अर्थ- वृत्ति – लघुसिद्धान्तकौमुदी – उदाहरण – समास – प्रथमावृत्ति - काशिका-काशिकावृत्तिन्यास-बालमनोरमा-तत्त्वबोधिनीत्यादिटीकाभिः ONLINE सुसज्जितानि वर्तन्ते ।

अस्मिन् सिद्धान्तकौमुदी इति ऐप मध्ये छात्राणामध्यापकानाञ्च अनुरोधेन सिद्धान्तकौमुद्याः प्रकरणानुसारेण प्रस्तुतीकरणं प्रस्तूयते येन छात्राः विद्वांसश्च सिद्धान्तकोमुद्याः आवृत्तिं कर्तुं शक्नुयुः । सहैव कक्षायां पुस्तकं विना अपि अध्ययनाध्यापनं कर्तुं सोकर्यमनुभवेयुः । सौकर्यमस्ति अत्र यत् अत्र सूत्राणामुपरि क्लिक करणेन तेषां सूत्राणां पदच्छेद – समास - अर्थ - वृत्ति - लघुसिद्धान्तकौमुदी - उदाहरण - समास -प्रथमावृत्ति - काशिका - काशिकावृत्तिन्यास - बालमनोरमा - तत्त्वबोधिनीत्यादि – टीकादयः समुपलब्धाः भवन्ति ।

Other Information:

Requires Android:
Android 4.0.3+
Other Sources:

Download

This version of Siddhant Kaumudi | Sanskrit Bo Android App comes with one universal variant which will work on all the Android devices.

Variant
18
(Oct 30, 2023)
Architecture
universal
Minimum OS
Android 4.0.3+
Screen DPI
nodpi (all screens)
Loading..